W3.CSS
Bhakti Ras Pravah-भक्ति रस प्रवाह

श्री कृष्णा स्तोत्र पाठ एवं फायदे - Shri Krishna Stotra lyrics & Benifits in hindi

 श्री कृष्णा स्तोत्र पाठ  एवं फायदे 

श्री कृष्णा स्तोत्र पाठ  एवं फायदे - Shri Krishna Stotra lyrics & Benifits in hindi
श्री कृष्णा स्तोत्र


Play Shri Krishna Stotra Stotr 
 
Paath
श्री कृष्णा स्तोत्र  स्तोत्र का पाठ सुनें 
                                                    




⬆ Play Shri Krishna Stotra Mantra ⬆

श्री कृष्णा  स्तोत्र  का   पाठ  -

Shri Krishna  Stotr lyrics 

कृष्णा स्तोत्र | Krishna Stotra Lyrics


त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।


निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥


साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।


प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥


सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।


ते त्वदंशास्सर्वबीजाः ब्रह्मविष्णुमहेश्वराः॥ ३ ॥


यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर ।


महाविराण् महाविष्णुः त्वं तस्य जनको विभो ॥ ४ ॥


तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।


वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥


महदादेस्सृष्टिसूत्रं पञ्चतन्मात्रमेव च ।


बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥


सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयस्सदा ।


त्वमनीहः स्वयंज्योतिः सर्वानन्दस्सनातनः ॥ ७ ॥


अहो आकारहीनस्त्वं सर्वविग्रहवानपि ।


सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८ ॥


सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे ।


जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥


पार्वती कमला राधा सावित्री वेदसूरपि ।


वेदश्च जडतां याति को वा शक्ता विपश्चितः ॥ १० ॥


वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ।


प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११ ॥


विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।


स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ १२ ॥


ये  भी सुनें  :






Post a Comment

0 Comments